📚 श्रीमद्भागवतम् (यदुपत्याटीका) - स्कन्धः ३
Page 1
Download 📥
________________ मैत्रेय उवाच श्रीमत् भगवद्बादरायणप्रणीतम् श्रीमद्भागवतम् चतुर्थस्कन्धः अथ प्रथमोध्यायः ॐ नमो भगवते वासुदेवाय मनोस्तु शतरूपायां तिस्रः कन्याश्च जज्ञिरे । आकूतिर्देवहूतिश्च प्रसूतिरिति विश्रुताः ॥ १ ॥ श्रीमद् आनन्दतीर्थभगवत्पादाचार्यविरचितः श्रीमद्भागवततात्पर्यनिर्णयः ॥ श्रीवेदव्यासाय नमः ॥ पुनः पुनः कथां प्राहुरभ्यासादुत्तमं फलम् । । विज्ञापयितुकामास्तु विद्वांसस्तत्रतत्र त्वि' त्याग्नेये ॥ १ ॥ ।। हरिः ॐ ॥ श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः || श्री यादवार्यविरचिता भागवतप्रकाशिका सत्यवत्यालवालोत्थं वेदशाखोपबृंहितम् । शुकादिद्विजसन्नादं व्यासकल्पद्रुमं भजे ॥ १ ॥ अत्र तिसृणां कन्यानां जननादिकं पूर्वोक्तमेव कस्मादुच्यत इत्याशङ्कायां प्रमाणेनैव परिहरति ।। पुनः पुनरिति । उत्तमं फलं भवतीति ज्ञापयितुकामाः । आद्यस्तुशब्दोऽवधारणेंऽत्यः अप्यर्थः । विद्वांस इत्यनेन संबध्यते । उक्तं पुनर्न वक्तव्यमिति जानन्तोऽपीत्यर्थः । मूले तुशब्दो मनोः स्वायंभुवादिविशेषसूचकः । द्वौ पुत्रौ चेत्युक्तसङ्ग्रहार्थश्चकारः || १ ||